वांछित मन्त्र चुनें

शिशुं॒ न त्वा॒ जेन्यं॑ व॒र्धय॑न्ती मा॒ता बि॑भर्ति सचन॒स्यमा॑ना । धनो॒रधि॑ प्र॒वता॑ यासि॒ हर्य॒ञ्जिगी॑षसे प॒शुरि॒वाव॑सृष्टः ॥

अंग्रेज़ी लिप्यंतरण

śiśuṁ na tvā jenyaṁ vardhayantī mātā bibharti sacanasyamānā | dhanor adhi pravatā yāsi haryañ jigīṣase paśur ivāvasṛṣṭaḥ ||

पद पाठ

शिशु॑म् । न । त्वा॒ । जेन्य॑म् । व॒र्धय॑न्ती । मा॒ता । बि॒भ॒र्ति॒ । स॒च॒न॒स्यमा॑ना । धनोः॑ । अधि॑ । प्र॒ऽवता॑ । या॒सि॒ । हर्य॑म् । जगी॑षसे । प॒शुःऽइ॑व । अव॑ऽसृष्टः ॥ १०.४.३

ऋग्वेद » मण्डल:10» सूक्त:4» मन्त्र:3 | अष्टक:7» अध्याय:5» वर्ग:32» मन्त्र:3 | मण्डल:10» अनुवाक:1» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (त्वा) तुझ विद्युद्रूप अग्नि को (माता) यह सब प्राणी वनस्पतियों का निर्माण करनेवाली माता बनी हुई पृथिवी (सचनस्यमाना) अपने में समवेत-संयुक्त करनेवाली अथवा अन्न सेवन करनेवाले प्राणियों से संयुक्त हुई (जेन्यं शिशुं वर्धयन्ती न बिभर्ति) जयशील-प्रभावकारी प्रशंसनीय शोभन वत्स को बढ़ाती हुई के समान धारण करती है (धनोः अधि प्रवता यासि) और हे विद्युद्रूप अग्ने ! तू अन्तरिक्ष में होती हुई वृष्टि गिराने द्वारा निम्न मार्ग से प्राप्त होती है और (अवसृष्टः-पशुः-इव) बन्धन से छूटे हुए पशु की भाँति (हर्यन् जिगीषसे) मेघों को जीतना चाहती है, अतः उन्हें प्राप्त होती है ॥३॥
भावार्थभाषाः - प्राणियों की माता पृथिवी जयशील विद्युद्रूप अग्नि को बढ़ावा देती है और वह विद्युद् अग्नि वृष्टि के निमित्त चमकती और कड़कती है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

विद्युदात्मनोऽग्नेर्वर्णनमुच्यते।

पदार्थान्वयभाषाः - (त्वा) त्वां विद्युद्रूपमग्निम् (माता) एषा सर्वेषां प्राणिवनस्पतीनां निर्मात्री मातृभूता पृथिवी (सचनस्यमाना) स्वस्मिन् समवेतं करिष्यमाणा सती “षच-समवाये” [भ्वादिः] ‘ततः श्नं विकरणं मध्ये पतितं छान्दसम्’, यद्वा चनस्यमानैः-अन्नं सेवमानैः प्राणिभिः सह युक्ता—“चायतेरन्ने ह्रस्वश्च” [उणा० ४।२००] इति चायृधातोरसुनि तदन्तात् क्यचि च चनस्य इति नामधातुः, “चनस्यतम्-चनस् शब्दात् क्यच्प्रत्यये तदन्तान्नामधातोर्लोटि मध्यमस्य द्विवचने प्रयोगः” [ऋ० १।३।१ दयानन्दः] (जेन्यं शिशुं वर्धयन्ती न बिभर्ति) जयशीलं प्रभावकारिणं वत्सं शंसनीयं शोभनं वर्धयन्तीव धारयति (धनोः अधि प्रवता यासि) त्वं च विद्युद्रूपाग्ने ! धनोः-अधि-धन्वनि-अन्तरिक्षे सन् ‘धनुः-धन्वन्’ वैदिकसाहित्ये पर्यायत्वं भजेते “धन्वान्तरिक्षं धन्वन्त्यस्मादापः” [निरु० ५।५] “धन्वनाजिं जयेम” “धनुः शत्रोरपकामं कृणोति” [ऋ० ६।७५।२।, निरु० ९।१६] प्रवणेन निम्नेन मार्गेण गच्छसि वृष्टिनिपातनद्वारा, किं च (अवसृष्टः-पशुः-इव) बन्धनान्मुक्तः पशुरिव (हर्यन् जिगीषसे) मेघान् जेतुमिच्छसि-अतस्तान्-गच्छसि “हर्य गतिकान्त्योः” [भ्वादि०] ॥३॥